श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

केनोपनिषद्वाक्यभाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

समाप्तं कर्मात्मभूतप्राणविषयं विज्ञानं कर्म चानेकप्रकारम् , ययोर्विकल्पसमुच्चयानुष्ठानाद्दक्षिणोत्तराभ्यां सृतिभ्यामावृत्त्यनावृत्ती भवतः । अत ऊर्ध्वं फलनिरपेक्षज्ञानकर्मसमुच्चयानुष्ठानात्कृतात्मसंस्कारस्य उच्छिन्नात्मज्ञानप्रतिबन्धकस्य द्वैतविषयदोषदर्शिनः निर्ज्ञाताशेषबाह्यविषयत्वात् संसारबीजमज्ञानमुच्चिच्छित्सतः प्रत्यगात्मविषयजिज्ञासोः ‘केनेषितम् . . . ’ इत्यात्मस्वरूपतत्त्वविज्ञानाय अयमध्याय आरभ्यते । तेन च मृत्युपदमज्ञानमुच्छेत्तव्यम् ; तत्तन्त्रो हि संसारो यतः । अनधिगतत्वादात्मनो युक्ता तदधिगमाय तद्विषया जिज्ञासा । कर्मविषये चानुक्तिस्तद्विरोधित्वात् । अस्य विजिज्ञासितव्यस्यात्मतत्त्वस्य कर्मविषयेऽवचनं कस्मादिति चेत् , आत्मनो हि यथावद्विज्ञानं कर्मणा विरुध्यते । निरतिशयब्रह्मस्वरूपो ह्यात्मा विजिज्ञापयिषितः, ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदम्’ (के. उ. १ । ४) इत्यादिश्रुतेः । न हि स्वाराज्येऽभिषिक्तो ब्रह्मत्वं गमितः कञ्चन नमितुमिच्छति । अतो ब्रह्मास्मीति सम्बुद्धौ न कर्म कारयितुं शक्यते । न ह्यात्मानमवाप्तार्थं ब्रह्म मन्यमानः प्रवृत्तिं प्रयोजनवतीं पश्यति । न च निष्प्रयोजना प्रवृत्तिः । अतो विरुध्यत एव कर्मणा ज्ञानम् । अतः कर्मविषयेऽनुक्तिः । विज्ञानविशेषविषयैव जिज्ञासा । कर्मानारम्भ इति चेत् , न ; निष्कामस्य संस्कारार्थत्वात् । यदि ह्यात्मविज्ञानेन आत्माविद्याविषयत्वात्परितित्याजयिषितं कर्म, ततः ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ ( ? ) इत्यनारम्भ एव कर्मणः श्रेयान् अल्पफलत्वात् आयासबहुलत्वात् तत्त्वज्ञानादेवं च श्रेयःप्राप्तेः इति चेत् , सत्यम् एतदविद्याविषयं कर्म अल्पफलत्वादिदोषवद्बन्धरूपं च सकामस्य ; ‘कामान्यः कामयते’ (मु. उ. ३ । २ । २) ‘इति नु कामयमानः’ (बृ. उ. ४ । ४ । ६) इत्यादिश्रुतिभ्यः । न निष्कामस्य । तस्य तु संस्कारार्थान्येव कर्माणि भवन्ति तन्निर्वर्तकप्राणविज्ञानसहितानि । ‘देवयाजी श्रेयानात्मयाजी वा’इत्युपक्रम्य ‘आत्मयाजी तु करोतीदं मेऽनेनाङ्गं संस्क्रियते’ इति संस्कारार्थमेव कर्माणीति वाजसनेयके ; ‘महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः । ’ (मनु. २ । २८)‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्’ (भ. गी. १८ । ५) इत्यादिस्मृतेश्च । प्राणादिविज्ञानं च केवलं कर्मसमुच्चितं वा सकामस्य प्राणात्मप्राप्त्यर्थमेव भवति । निष्कामस्य त्वात्मज्ञानप्रतिबन्धकनिर्मृष्ट्यै भवत्यादर्शनिर्मार्जनवत् । उत्पन्नात्मविद्यस्य त्वनारम्भः, निरर्थकत्वात् । ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’ (मो. ध. २४१_७) इति, क्रियापथश्चैव पुरस्तात्संन्यासश्च तयोः संन्यास एवात्यरेचयत् इति, ‘त्यागेनैके’ (तै. ना. २८) ‘नान्यः पन्था विद्यते’ (श्वे. उ. ३ । ८) इत्यादिश्रुतिभ्यश्च । न्यायाच्च । उपायभूतानि हि कर्माणि संस्कारद्वारेण ज्ञानस्य । ज्ञानेन त्वमृतत्वप्राप्तिः, ‘अमृतत्वं हि विन्दते’ (के. उ. २ । ४) ‘विद्यया विन्दतेऽमृतम्’ (के. उ. २ । ४) इत्यादिश्रुतिस्मृतिभ्यश्च । न हि नद्याः पारगो नावं न मुञ्चति यथेष्टदेशगमनं प्रति स्वातन्त्र्ये सति । न हि स्वभावसिद्धं वस्तु सिषाधयिषति साधनैः । स्वभावसिद्धश्चात्मा । तथा नापिपयिषितः, आत्मत्वे सति नित्याप्तत्वात् । नापि विचिकारयिषितः, आत्मत्वे सति नित्यत्वादविकारित्वादविषयत्वादमूर्तत्वाच्च ; श्रुतेश्च ‘न वर्धते कर्मणा’ (बृ. उ. ४ । ४ । २३) इत्यादि ; स्मृतेश्च ‘अविकार्योऽयमुच्यते’ (भ. गी. २ । २५) इति । न च सञ्चिस्कीर्षितः, ‘शुद्धमपापविद्धम्’ (ई. उ. ८) इत्यादिश्रुतिभ्यः । अनन्यत्वाच्च । अन्येनान्यत्संस्क्रियते । न चात्मनोऽन्यभूता क्रियास्ति । न च स्वेनैवात्मना स्वमात्मानं सञ्चिस्कीर्षेत् । न च वस्त्वन्तराधानं नित्यप्राप्तिर्वा वस्त्वन्तरस्य नित्या । नित्यत्वं चेष्टं मोक्षस्य । अत उत्पन्नविद्यस्य कर्मारम्भोऽनुपपन्नः । अतो व्यावृत्तबाह्यबुद्धेरात्मविज्ञानाय ‘केनेषितम्’ इत्याद्यारम्भः ॥
केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुःश्रोत्रं क उ देवो युनक्ति ॥ १ ॥
प्रवृत्तिलिङ्गाद्विशेषार्थः प्रश्न उपपन्नः । रथादीनां हि चेतनावदधिष्ठितानां प्रवृत्तिर्दृष्टा, न अनधिष्ठितानाम् । मनआदीनां च अचेतनानां प्रवृत्तिर्दृश्यते ; तद्धि लिङ्गं चेतनावतोऽधिष्ठातुरस्तित्वे । करणानि हि मनआदीनि नियमेन प्रवर्तन्ते ; तन्नासति चेतनावत्यधिष्ठातर्युपपद्यते । तद्विशेषस्य चानधिगमाच्चेतनावत्यधिष्ठातृसामान्ये चाधिगते विशेषार्थः प्रश्न उपपद्यते । केनेषितं केनेष्टं कस्येच्छामात्रेण मनः पतति गच्छति, स्वविषये नियमेन व्याप्रियत इत्यर्थः । मनुतेऽनेनेति विज्ञाननिमित्तमन्तःकरणं मनः । प्रेषितमिवेत्युपमार्थः । न त्विषितप्रेषितशब्दयोरर्थाविह सम्भवतः । न हि शिष्यानिव मनआदीनि विषयेभ्यः प्रेषयत्यात्मा । विविक्तनित्यचित्स्वरूपतया तु निमित्तमात्रं प्रवृत्तौ नित्यचिकित्साधिष्ठातृवत् । प्राण इति नासिकाभवः प्रकरणात् । प्रथमत्वं च क्रियायाः प्राणनिमित्तत्वात् । स्वतो विषयावभासमात्रं करणानां प्रवृत्तिः । चलिक्रिया तु प्राणस्यैव मनआदिषु । तस्मात्प्राथम्यं प्राणस्य । प्रैति गच्छति । युक्तः प्रयुक्त इत्येतत् । वाचो वचनं किंनिमित्तं प्राणिनाम् । चक्षुःश्रोत्रयोश्च को देवः प्रयोक्ता । करणानामधिष्ठाता चेतनावान्यः, स किंविशेषण इत्यर्थः ॥
श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥
‘श्रोत्रस्य श्रोत्रम्’ इत्यादिप्रतिवचनं निर्विशेषस्य निमित्तत्वार्थम् । विक्रियादिविशेषरहितस्यात्मनो मनआदिप्रवृत्तौ निमित्तत्वमित्येतत् ‘श्रोत्रस्य श्रोत्रम्’ इत्यादिप्रतिवचनस्यार्थः, अनुगमात् । अनुगतानि ह्यस्मिन्नर्थेऽक्षराणि । कथम् ? शृणोत्यनेनेति श्रोत्रम् । तस्य शब्दावभासकत्वं श्रोत्रत्वम् । शब्दोपलब्धृरूपतयावभासकत्वं न स्वतः श्रोत्रस्य ; अचिद्रूपत्वात् , आत्मनश्च चिद्रूपत्वात् । यच्छ्रोत्रस्योपलब्धृत्वेनावभासकत्वं तदात्मनिमित्तत्वाच्छ्रोत्रस्य श्रोत्रमित्युच्यते । यथा क्षत्रस्य क्षत्रम् , यथा वा उदकस्यौष्ण्यमग्निनिमित्तमिति दग्धुरप्युदकस्य दग्धाग्निरुच्यते उदकमपि ह्यग्निसंयोगादग्निरुच्यते, तद्वदनित्यं यत्संयोगादुपलब्धृत्वं तत्करणं श्रोत्रादि । उदकस्येव दग्धृत्वमनित्यं हि तत्र तत् । यत्र तु नित्यमुपलब्धृत्वमग्नाविवौष्ण्यं स नित्योपलब्धिस्वरूपत्वात् दग्धेवोपलब्धोच्यते । श्रोत्रादिषु श्रोतृत्वाद्युपलब्धिरनित्या, नित्या चात्मनि । अतः श्रोत्रस्य श्रोत्रमित्याद्यक्षराणामर्थानुगमादुपपद्यते निर्विशेषस्योपलब्धिस्वरूपस्यात्मनो मनआदिप्रवृत्तिनिमित्तत्वमिति । मनआदिष्वेवं यथोक्तम् । वाचो ह वाचं प्राणस्य प्राण इति विभक्तिद्वयम् । सर्वत्रैवं हि द्रष्टव्यम् । कथम् ? पृष्टत्वात् स्वरूपनिर्देशः । प्रथमयैव च निर्देशः । तस्य च ज्ञेयत्वात्कर्मत्वमिति द्वितीया । अतो वाचो ह वाचं प्राणस्य प्राण इत्यस्मात्सर्वत्रैव विभक्तिद्वयम् । यदेतच्छ्रोत्राद्युपलब्धिनिमित्तं श्रोत्रस्य श्रोत्रमित्यादिलक्षणं तत् नित्योपलब्धिस्वरूपं निर्विशेषमात्मतत्त्वं बुद्ध्वा अतिमुच्य अनवबोधनिमित्ताध्यारोपिताद्बुद्ध्यादिलक्षणात्संसारान्मोक्षणं कृत्वा धीराः धीमन्तः प्रेत्य अस्मात् लोकात् शरीरात् प्रेत्य वियुज्य अन्यस्मिन्नप्रतिसन्धीयमाने निर्निमित्तत्वादमृता भवन्ति । सति ह्यज्ञाने कर्माणि शरीरान्तरं प्रतिसन्दधते । आत्मावबोधे तु सर्वकर्मारम्भनिमित्ताज्ञानविपरीतविद्याग्निविप्लुष्टत्वात्कर्मणामिति अनारम्भेऽमृता एव भवन्ति । शरीरादिसन्तानाविच्छेदप्रतिसन्धानाद्यपेक्षया अध्यारोपितमृत्युवियोगात्पूर्वमप्यमृताः सन्तो नित्यात्मस्वरूपत्वादमृता भवन्तीत्युपचर्यते ॥
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।
न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥
न तत्र चक्षुर्गच्छतीत्युक्तेऽपि पर्यनुयोगे हेतुरप्रतिपत्तेः । ‘श्रोत्रस्य श्रोत्रम्’ इत्येवमादिनोक्तेऽप्यात्मतत्त्वे अप्रतिपन्नत्वात्सूक्ष्मत्वहेतोर्वस्तुनः पुनः पुनः पर्यनुयुयुक्षाकारणमाह — न तत्र चक्षुर्गच्छतीति । तत्र श्रोत्राद्यात्मभूते चक्षुरादीनि, वाक्चक्षुषोः सर्वेन्द्रियोपलक्षणार्थत्वात् , न विज्ञानमुत्पादयन्ति । सुखादिवत्तर्हि गृह्येतान्तःकरणेन अत आह — नो मनः, न सुखादिवन्मनसो विषयस्तत् , इन्द्रियाविषयत्वात् । न विद्मो न विजानीमः अन्तःकरणेन, यथा एतत् ब्रह्म मनआदिकरणजातम् अनुशिष्यात् अनुशासनं कुर्यात् प्रवृत्तिनिमित्तं यथा भवेत् , तथा अविषयत्वान्न विद्मो न विजानीमः । अथवा श्रोत्रादीनां श्रोत्रादिलक्षणं ब्रह्म विशेषेण दर्शयेत्युक्त आचार्य आह — न शक्यते दर्शयितुम् । कस्मात् ? न तत्र चक्षुर्गच्छतीत्यादि पूर्ववत्सर्वम् । अत्र तु विशेषो यथैतदनुशिष्यादिति । यथैतत् अनुशिष्यात् प्रतिपादयेत् अन्योऽपि शिष्यानितोऽन्येन विधिनेत्यभिप्रायः ॥
अन्यदेव तद्विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४ ॥
सर्वथापि ब्रह्म बोधयेत्युक्त आचार्य आह ‘अन्यदेव तद्विदितादथो अविदितादधि’ इत्यागमम् । विदिताविदिताभ्यामन्यत् यो हि ज्ञाता स एव सः, सर्वात्मकत्वात् । अतः सर्वात्मनो ज्ञातुर्ज्ञात्रन्तराभावाद्विदितादन्यत्वम् । ‘स वेत्ति वेद्यं न च तस्यास्ति वेत्ता’ (श्वे. उ. ३ । १९) इति च मन्त्रवर्णात् । ‘विज्ञातारमरे केन विजानीयात्’ (बृ. उ. २ । ४ । १४) इति च वाजसनेयके । अपि च व्यक्तमेव विदितं तस्मादन्यदित्यभिप्रायः । यद्विदितं व्यक्तं तदन्यविषयत्वादल्पं सविरोधं ततोऽनित्यम् अत एवानेकत्वादशुद्धम् अत एव तद्विलक्षणं ब्रह्मेति सिद्धम् । अस्तु तर्ह्यविदितम् । न, विज्ञानानपेक्षत्वात् । यद्ध्यविदितं तद्विज्ञानापेक्षम् । अविदितविज्ञानाय हि लोकप्रवृत्तिः । इदं तु विज्ञानानपेक्षम् । कस्मात् ? विज्ञानस्वरूपत्वात् । न हि यस्य यत्स्वरूपं तत्तेनान्यतोऽपेक्ष्यते । न च स्वत एव वापेक्षा, अनपेक्षमेव सिद्धत्वात् । न हि प्रदीपः स्वरूपाभिव्यक्तौ प्रकाशान्तरमन्यतोऽपेक्षते, स्वतो वा । यद्ध्यनपेक्षं तत्स्वत एव सिद्धम् , प्रकाशात्मकत्वात् । प्रदीपस्यान्योऽपेक्षितोऽप्यनर्थकः स्यात् , प्रकाशे विशेषाभावात् । न हि प्रदीपस्य स्वरूपाभिव्यक्तौ प्रदीपप्रकाशोऽर्थवान् । न चैवमात्मनोऽन्यत्र विज्ञानमस्ति, येन स्वरूपविज्ञानेऽप्यपेक्ष्येत । विरोध इति चेत् , न ; अन्यत्वात् । स्वरूपविज्ञाने विज्ञानस्वरूपत्वाद्विज्ञानान्तरं नापेक्षत इत्येतदसत् । दृश्यते हि विपरीतज्ञानमात्मनि सम्यग्ज्ञानं च — न जानाम्यात्मानमिति च, श्रुतेश्च । ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘आत्मानमेवावेत्’ (बृ. उ. १ । ४ । १०) ‘एतं वै तमात्मानं विदित्वा’ (बृ. उ. ३ । ५ । १) इति च सर्वत्र श्रुतिष्वात्मविज्ञाने विज्ञानान्तरापेक्षत्वं दृश्यते । तस्मात्प्रत्यक्षश्रुतिविरोध इति चेत् , न । कस्मात् ? अन्यो हि स आत्मा बुद्ध्यादिकार्यकरणसङ्घातात्माभिमानसन्तानाविच्छेदलक्षणोऽविवेकात्मको बुद्ध्याद्यवभासप्रधानश्चक्षुरादिकरणो नित्यचित्स्वरूपात्मान्तःसारो यत्रानित्यं विज्ञानमवभासते । बौद्धप्रत्ययानामाविर्भावतिरोभावधर्मकत्वात्तद्धर्मतयैव विलक्षणमपि चावभासते । अन्तःकरणस्य मनसोऽपि मनोऽन्तर्गतत्वात् सर्वान्तरश्रुतेः । अन्तर्गतेन नित्यविज्ञानस्वरूपेण आकाशवदप्रचलितात्मना अन्तर्गर्भभूतेन स बाह्यो बुद्ध्यात्मा तद्विलक्षणः, अनग्निरिवाग्निः अर्चिर्भिरिवाग्नेः प्रत्ययैराविर्भावतिरोभावधर्मकैर्विज्ञानाभासरूपैरनित्यैः अनित्यविज्ञान आत्मा सुखी दुःखी इत्यभ्युपगतो लौकिकैः, अतोऽन्यो नित्यविज्ञानस्वरूपादात्मनः । तत्र हि विज्ञानापेक्षा विपरीतज्ञानत्वं चोपपद्यते, न पुनर्नित्यविज्ञाने । ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति बोधोपदेशो नोपपद्यत इति चेत् , ‘आत्मानमेवावेत्’ (बृ. उ. १ । ४ । १०) इत्येवमादीनि च, नित्यबोधात्मकत्वात् । न ह्यादित्योऽन्येन प्रकाश्यते ; अतस्तदर्थबोधोपदेशोऽनर्थक एवेति चेत् , न ; लोकाध्यारोपापोहार्थत्वात् । सर्वात्मनि हि नित्यविज्ञाने बुद्ध्याद्यनित्यधर्मा लोकैरध्यारोपिता आत्माविवेकतः ; तदपोहार्थो बोधोपदेशो बोधात्मनः । तत्र च बोधाबोधौ समञ्जसौ । अन्यनिमित्तत्वादुदक इवौष्ण्यमग्निनिमित्तम् । रात्र्यहनी इवादित्यनिमित्ते लोके नित्यावौष्ण्यप्रकाशावग्न्यादित्ययोरन्यत्र भावाभावयोः सनिमित्तत्वादनित्याविवोपचर्येते । धक्ष्यत्यग्निः प्रकाशयिष्यति सविता इति तद्वत् । एवं च सुखदुःखबन्धमोक्षाद्यध्यारोपो लोकस्य तदपेक्ष्य ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘आत्मानमेवावेत्’ इत्यात्मावबोधोपदेशिन्यः श्रुतयः केवलमध्यारोपापोहार्थाः । यथा सवितासौ प्रकाशयत्यात्मानम् इति तद्वत् बोधकर्तृत्वं च नित्यबोधात्मनि । तस्मादन्यदविदितात् । अधिशब्दश्चान्यार्थे । यद्वा यद्धि यस्याधि तत्ततोऽन्यत्सामर्थ्यात् , यथाधि भृत्यादीनां राजा । अव्यक्तमेवाविदितं ततोऽन्यदित्यर्थः । विदितमविदितं च व्यक्ताव्यक्ते कार्यकारणत्वेन विकल्पिते, ताभ्यामन्यद्ब्रह्म विज्ञानस्वरूपं सर्वविशेषप्रत्यस्तमितमित्ययं समुदायार्थः । अत एवात्मत्वान्न हेय उपादेयो वा । अन्यद्ध्यन्येन हेयमुपादेयं वा’ न तेनैव तद्यस्य कस्यचिद्घेयमुपादेयं वा भवति । आत्मा च ब्रह्म सर्वान्तरत्वादविषयः । अतोऽन्यस्यापि न हेयमुपादेयं वा । अन्याभावाच्च । इति शुश्रुम पूर्वेषामित्यागमोपदेशः । व्याचचक्षिरे इत्यस्वातन्त्र्यं तर्कप्रतिषेधार्थम् । ये नः तत् ब्रह्म उक्तवन्तः ते तमेवागमं ब्रह्मप्रतिपादकं व्याख्यातवन्तः, न पुनः स्वबुद्धिप्रभवेण तर्केणोक्तवन्त इति तस्यैव द्रढिम्ने आगमपारम्पर्याविच्छेदं दर्शयति विद्यास्तुतये । तर्कस्त्वनवस्थितो भ्रान्तोऽपि भवतीति ॥
यद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥
यद्वाचेति मन्त्रानुवादो दृढप्रतीत्यै । ‘अन्यदेव तद्विदितात्’ इति योऽयमागमार्थो ब्राह्मणोक्तः अस्यैव द्रढिम्ने इमे मन्त्राः यद्वाचा इत्यादयः पठ्यन्ते । यत् ब्रह्म वाचा शब्देन अनभ्युदितम् अनभ्युक्तम् , अप्रकाशितमित्येतत् । येन वागभ्युद्यत इति वाक्प्रकाशहेतुत्वोक्तिः । येन प्रकाश्यत इति वाचोऽभिधानस्य अभिधेयप्रकाशकत्वस्य हेतुत्वमुच्यते ब्रह्मणः । उक्तं च ‘केनेषितां वाचमिमां वदन्ति’ (के. उ. १ । १) ‘यद्वाचो ह वाचम्’ (के. उ. १ । २) इति । तदेव ब्रह्म त्वं विद्धि इत्यविषयत्वेन ब्रह्मण आत्मन्यवस्थापनार्थ आम्नायः । यद्वाचानभ्युदितं वाक्प्रकाशनिमित्तं चेति ब्रह्मणोऽविषयत्वेन वस्त्वन्तरजिघृक्षां निवर्त्य स्वात्मन्येवावस्थापयत्याम्नायः तदेव ब्रह्म त्वं विद्धि इति ; यत्नत उपरमयति नेदमित्युपास्यप्रतिषेधाच्च ॥
यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९ ॥
यन्मनसेत्यादि समानम् । मनो मतमिति । येन ब्रह्मणा मनोऽपि विषयीकृतं नित्यविज्ञानस्वरूपेणेत्येतत् । सर्वकरणानामविषयस्तानि च सव्यापाराणि सविषयाणि नित्यविज्ञानस्वरूपावभासतया येनावभास्यन्त इति श्लोकार्थः । ‘क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत’ (भ. गी. १३ । ३३) इति स्मृतेः । ‘तस्य भासा’ (मु. उ. २ । २ । १०) इति चाथर्वणे । येन प्राण इति क्रियाशक्तिरप्यात्मविज्ञाननिमित्तेत्येतत् ॥
इति प्रथमखण्डभाष्यम् ॥
यदि मन्यसे सु वेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥ १ ॥
यदि मन्यसे सु वेदेति शिष्यबुद्धिविचालना गृहीतस्थिरतायै । विदिताविदिताभ्यां निवर्त्य बुद्धिं शिष्यस्य स्वात्मन्यवस्थाप्य ‘तदेव ब्रह्म त्वं विद्धि’ इति स्वाराज्येऽभिषिच्य उपास्यप्रतिषेधेनाथास्य बुद्धिं विचालयति — यदि मन्यसे सुष्ठु वेद अहं ब्रह्मतत्त्वमिति, ततोऽल्पमेव ब्रह्मणो रूपं वेत्थ त्वमिति नूनं निश्चितं मन्यते आचार्यः । सा पुनर्विचालना किमर्थेति, उच्यते — पूर्वगृहीते वस्तुनि बुद्धेः स्थिरतायै । देवेष्वपि सु वेदाहमिति मन्यते यः सोऽप्यस्य ब्रह्मणो रूपं दभ्रमेव वेत्ति नूनम् । कस्मात् ? अविषयत्वात्कस्यचिद्ब्रह्मणः । अथवा अल्पमेवास्याध्यात्मिकं मनुष्येषु देवेषु चाधिदैविकमस्य ब्रह्मणो यद्रूपं तदिति सम्बन्धः । अथ नु इति हेतुर्मीमांसायाः । यस्माद्दभ्रमेव सुविदितं ब्रह्मणो रूपम् ‘अन्यदेव तद्विदितात्’ इत्युक्तत्वात् , सु वेदेति च मन्यसे ; अतः अल्पमेव वेत्थ त्वं ब्रह्मणो रूपं यस्मात् अथ नु तस्मात् मीमांस्यमेव अद्यापि ते तव ब्रह्म विचार्यमेव यावद्विदिताविदितप्रतिषेधागमार्थानुभव इत्यर्थः । मन्ये विदितमिति शिष्यस्य मीमांसानन्तरोक्तिः प्रत्ययत्रयसङ्गतेः । सम्यग्वस्तुनिश्चयाय विचालितः शिष्य आचार्येण मीमांस्यमेव ते इति चोक्तः एकान्ते समाहितो भूत्वा विचार्य यथोक्तं सुपरिनिश्चितः सन्नाह आगमाचार्यात्मानुभवप्रत्ययत्रयस्यैकविषयत्वेन सङ्गत्यर्थम् । एवं हि ‘सुपरिनिष्ठिता विद्या सफला स्यान्नानिश्चिता’ इति न्यायः प्रदर्शितो भवति ; मन्ये विदितमिति परिनिष्ठितनिश्चितविज्ञानप्रतिज्ञाहेतूक्तेः ॥
नाह मन्ये सु वेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २ ॥
परिनिष्ठितं सफलं विज्ञानं प्रतिजानीते आचार्यात्मनिश्चययोस्तुल्यतायै यस्माद्धेतुमाह — नाह मन्ये सु वेदेति । अहेत्यवधारणार्थो निपातः । नैव मन्ये इत्येतत् । यावदपरिनिष्ठितं विज्ञानं तावत् सु वेद सुष्ठु वेद अहं ब्रह्मेति विपरीतो मम निश्चय आसीत् । सोऽपजगाम भवद्भिर्विचालितस्य यथोक्तार्थमीमांसाफलभूतात्स्वात्मब्रह्मत्वनिश्चयरूपात्सम्यक्प्रत्ययात् । विरुद्धत्वादतो नाह मन्ये सु वेदेति । यस्माच्चैतत् नैव न वेद नो न वेदेति ; मन्ये इत्यनुवर्तते, अविदितब्रह्मप्रतिषेधात् । कथं तर्हि मन्यसे इत्युक्त आह — वेद च । च—शब्दाद्वेद च न वेद च इत्यभिप्रायः, विदिताविदिताभ्यामन्यत्वाद्ब्रह्मणः । तस्मान्मया विदितं ब्रह्मेति मन्ये इति वाक्यार्थः । अथवा वेद चेति नित्यविज्ञानब्रह्मस्वरूपतया नो न वेद वेदैव चाहं स्वरूपविक्रियाभावात् । विशेषविज्ञानं च पराध्यस्तं न स्वत इति परमार्थतो न च वेदेति । यो नस्तद्वेद तद्वेदेति पक्षान्तरनिरासार्थमाम्नाय उक्तार्थानुवादात् । यः नः अस्माकं मध्ये तद्वेद स एव तद्ब्रह्म वेद नान्यः, उपास्यब्रह्मवित्त्वात् । अतोऽन्यस्य यथाहं वेदेति पक्षान्तरे ब्रह्मवित्त्वं निरस्यते । कुतोऽयमर्थोऽवसीयत इति, उच्यते — उक्तानुवादात् । उक्तं ह्यनुवदति नो न वेदेति वेद चेति ॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥
यस्यामतमिति श्रौतमाख्यायिकार्थोपसंहारार्थम् । शिष्याचार्योक्तिप्रत्युक्तिलक्षणया अनुभवयुक्तिप्रधानया आख्यायिकया योऽर्थः सिद्धः स श्रौतेन वचनेनागमप्रधानेन निगमनस्थानीयेन सङ्क्षेपत उच्यते । यदुक्तं विदिताविदिताभ्यामन्यद्वागादीनामगोचरत्वात् मीमांसितं चानुभवोपपत्तिभ्यां ब्रह्म, तत्तथैव ज्ञातव्यम् । कस्मात् ? यस्यामतं यस्य विविदिषाप्रयुक्तप्रवृत्तस्य साधकस्य अमतम् अविज्ञातम् अविदितं ब्रह्म इत्यात्मतत्त्वनिश्चयफलावसानावबोधतया विविदिषा निवृत्तेत्यभिप्रायः, तस्य मतं ज्ञातम् ; तेन विदितं ब्रह्म येनाविषयत्वेन आत्मत्वेन प्रतिबुद्धमित्यर्थः । स सम्यग्दर्शी यस्य विज्ञानानन्तरमेव ब्रह्मात्मभावस्यावसितत्वात् सर्वतः कार्यभावो विपर्ययेण मिथ्याज्ञानो भवति । कथम् ? मतं विदितं ज्ञातं मया ब्रह्म इति यस्य विज्ञानम् , स मिथ्यादर्शी विपरीतविज्ञानो विदितादन्यत्वाद्ब्रह्मणो न वेद सः न विजानाति । ततश्च सिद्धमवैदिकस्य विज्ञानस्य मिथ्यात्वम् , अब्रह्मविषयतया निन्दितत्वात् । तथा कपिलकणभुगादिसमयस्यापि विदितब्रह्मविषयत्वात् अनवस्थिततर्कजन्यत्वाविदितविषयतया विविदिषानिवृत्तेश्च मिथ्यात्वमिति । स्मृतेश्च — ‘या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रोक्तास्तमोनिष्ठा हि ताः स्मृताः’ (मनु. १२ । ९५) इति । ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ इति पूर्वहेतूक्तिः अनुवादस्यानर्थक्यात् — अनुवादमात्रेऽनर्थकं वचनमिति विपर्ययमिथ्याज्ञानयोर्नष्टत्वात् पूर्वोक्तयोः यस्यामतमित्यादिज्ञानाज्ञानयोर्हेत्वर्थत्वेनेदमुच्यते — अविज्ञातम् अविदितमात्मत्वेनाविषयतया ब्रह्म विजानतां यस्मात् , तस्मात्तदेव ज्ञानं यत्तेषां विज्ञातं विदितं व्यक्तमेव बुद्ध्यादिविषयं ब्रह्म अविजानतां विदिताविदितव्यावृत्तमात्मभूतं नित्यविज्ञानस्वरूपमात्मस्थमविक्रियममृतमजरमभयमनन्यत्वादविषयमित्येवमविजानतां बुद्ध्यादिविषयात्मतयैव नित्यं विज्ञातं ब्रह्म । तस्माद्विदिताविदितव्यक्ताव्यक्तधर्माध्यारोपेण कार्यकारणभावेन सविकल्पमयथार्थविषयत्वात् । शुक्तिकादौ रजताद्यध्यारोपणज्ञानवन्मिथ्याज्ञानं तेषाम् ॥
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥
प्रतिबोधविदितमिति वीप्साप्रत्ययानामात्मावबोधद्वारत्वात् बोधं प्रति बोधं प्रतीति वीप्सा सर्वप्रत्ययव्याप्त्यर्था । बौद्धा हि सर्वे प्रत्ययास्तप्तलोहवन्नित्यविज्ञानस्वरूपात्मव्याप्तत्वाद्विज्ञानस्वरूपावभासाः तदन्यावभासश्चात्मा तद्विलक्षणोऽग्निवदुपलभ्यत इति ते द्वारीभवन्त्यात्मोपलब्धौ । तस्मात्प्रतिबोधावभासप्रत्यगात्मतया यद्विदितं तद्ब्रह्म, तदेव मतं तदेव सम्यग्ज्ञानं यत्प्रत्यगात्मविज्ञानम् , न विषयविज्ञानम् । आत्मत्वेन ‘प्रत्यगात्मानमैक्षत्’ (क. उ. २ । १ । १) इति च काठके । अमृतत्वं हि विन्दते इति हेतुवचनं विपर्यये मृत्युप्राप्तेः । विषयात्मविज्ञाने हि मृत्युः प्रारभते इत्यात्मविज्ञानममृतत्वनिमित्तमिति युक्तं हेतुवचनममृतत्वं हि विन्दते इति । आत्मज्ञानेन किममृतत्वमुत्पाद्यते । न । कथं तर्हि ? आत्मना विन्दते स्वेनैव नित्यात्मस्वभावेनामृतत्वं विन्दते, नालम्बनपूर्वकं विन्दत इति आत्मज्ञानापेक्षम् । यदि हि विद्योत्पाद्यममृतत्वं स्यात् , अनित्यं भवेत्कर्मकार्यवत् । अतो न विद्योत्पाद्यम् ।
यदि चात्मनैवामृतत्वं विन्दते, किं पुनर्विद्यया क्रियत इत्युच्यते । अनात्मविज्ञानं निवर्तयन्ती सा तन्निवृत्त्या स्वाभाविकस्यामृतत्वस्य निमित्तमिति कल्प्यते ; यत आह — वीर्यं विद्यया विन्दते । वीर्यं सामर्थ्यम् अनात्माध्यारोपमायास्वान्तध्वान्तानभिभाव्यलक्षणं बलं विद्यया विन्दते । तच्च किंविशिष्टम् ? अमृतम् अविनाशि । अविद्याजं हि वीर्यं विनाशि, विद्ययाविद्याया बाध्यत्वात् । न तु विद्याया बाधकोऽस्तीति विद्याजममृतं वीर्यम् । अतो विद्या अमृतत्वे निमित्तमात्रं भवति । ‘नायमात्मा बलहीनेन लभ्यः’ (मु. उ. ३ । २ । ४) इति चाथर्वणे । लोकेऽपि विद्याजमेव बलमभिभवति न शरीरादिसामर्थ्यम् , यथा हस्त्यादेः । अथवा प्रतिबोधविदितं मतमिति सकृदेवाशेषविपरीतनिरस्तसंस्कारेण स्वप्नप्रतिबोधवद्यद्विदितं तदेव मतं ज्ञातं भवतीति । अथवा गुरूपदेशः प्रतिबोधः । तेन वा विदितं मतमिति । उभयत्र प्रतिबोधशब्दप्रयोगोऽस्ति — ‘सुप्तप्रतिबुद्धः’ ‘गुरुणा प्रतिबोधितः’ इति । पूर्वं तु यथार्थम् ॥
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥
इह चेदवेदीदिति अवश्यकर्तव्यतोक्तिः विपर्यये विनाशश्रुतेः । इह मनुष्यजन्मनि सति अवश्यमात्मा वेदितव्य इत्येतद्विधीयते । कथम् ? इह चेत् अवेदीत् विदितवान् , अथ सत्यं परमार्थतत्त्वम् अस्ति अवाप्तम् ; तस्य जन्म सफलमित्यभिप्रायः । न चेदिहावेदीत् न विदितवान् , वृथैव जन्म । अपि च महती विनष्टिः महान्विनाशो जन्ममरणप्रबन्धाविच्छेदप्राप्तिलक्षणः स्याद्यतः, तस्मादवश्यं तद्विच्छेदाय ज्ञेय आत्मा । ज्ञानेन तु किं स्यादिति, उच्यते — भूतेषु भूतेषु चराचरेषु सर्वेष्वित्यर्थः । विचित्य विचार्य पृथङ्निष्कृष्यैकमात्मतत्त्वं संसारधर्मैरस्पृष्टमात्मभावेनोपलभ्येत्यर्थः, अनेकार्थत्वाद्धातूनाम् । न पुनश्चित्वेति सम्भवति, विरोधात् । धीराः धीमन्तः विवेकिनः विनिवृत्तबाह्यविषयाभिलाषाः, प्रेत्य मृत्वा अस्मात् लोकात् शरीराद्यनात्मलक्षणात् व्यावृत्तममत्वाहङ्काराः सन्त इत्यर्थः, अमृताः अमरणधर्माणो नित्यविज्ञानामृतत्वस्वभावा एव भवन्ति ॥
इति द्वितीयखण्डभाष्यम् ॥
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥ १ ॥
तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ २ ॥
तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ३ ॥
तदभ्यद्रवत्तमभ्यवदत् कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४ ॥
तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ५ ॥
तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६ ॥
अथ वायुमब्रुवन् वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ७ ॥
तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ ८ ॥
तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९ ॥
तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १० ॥
अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥ ११ ॥
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्षमिति ॥ १२ ॥
ब्रह्म ह देवेभ्य इति ब्रह्मणो दुर्विज्ञेयतोक्तिः यत्नाधिक्यार्था । समाप्ता ब्रह्मविद्या यदधीनः पुरुषार्थः । अत ऊर्ध्वमर्थवादेन ब्रह्मणो दुर्विज्ञेयतोच्यते । तद्विज्ञाने कथं नु नाम यत्नमधिकं कुर्यादिति । शमाद्यर्थो वाम्नायः अभिमानशातनात् । शमादि वा ब्रह्मविद्यासाधनं विधित्सितं तदर्थोऽयमर्थवादाम्नायः । न हि शमादिसाधनरहितस्य अभिमानरागद्वेषादियुक्तस्य ब्रह्मविज्ञाने सामर्थ्यमस्ति, व्यावृत्तबाह्यमिथ्याप्रत्ययग्राह्यत्वाद्ब्रह्मणः । यस्माच्चाग्न्यादीनां जयाभिमानं शातयति, ततश्च ब्रह्मविज्ञानं दर्शयत्यभिमानोपशमे, तस्माच्छमादिसाधनविधानार्थोऽयमर्थवाद इत्यवसीयते । सगुणोपासनार्थो वा, अपोदितत्वात् । ‘नेदं यदिदमुपासते’ (के. उ. १ । ५) (के. उ. १ । ६) (के. उ. १ । ७) (के. उ. १ । ८) (के. उ. १ । ९) इत्युपास्यत्वं ब्रह्मणोऽपोदितम् । अपोदितत्वादनुपास्यत्वे प्राप्ते तस्यैव ब्रह्मणः सगुणत्वेनाधिदैवतमध्यात्मं चोपासनं विधातव्यमित्येवमर्थो वेति । अधिदैवतम् ‘तद्वनमित्युपासितव्यम्’ (के. उ. ४ । ६) इति हि वक्ष्यति । ब्रह्मेति परः, लिङ्गात् । न ह्यन्यत्र परादीश्वरान्नित्यसर्वज्ञात्परिभूयाग्न्यादींस्तृणं वज्रीकर्तुं सामर्थ्यमस्ति । ‘तन्न शशाक दग्धुम्’ (के. उ. ३ । ६) इत्यादिलिङ्गाद्ब्रह्मशब्दवाच्य ईश्वर इत्यवसीयते । न ह्यन्यथा अग्निस्तृणं दग्धुं नोत्सहते वायुर्वा आदातुम् । ईश्वरेच्छया तु तृणमपि वज्रीभवतीत्युपपद्यते । तत्सिद्धिर्जगतो नियतप्रवृत्तेः । श्रुतिस्मृतिप्रसिद्धिभिर्नित्यसर्वविज्ञाने ईश्वरे सर्वात्मनि सर्वशक्तौ सिद्धेऽपि शास्त्रार्थनिश्चयार्थमुच्यते । तस्येश्वरस्य सद्भावसिद्धिः कुतो भवतीति, उच्यते । यदिदं जगद्देवगन्धर्वयक्षरक्षःपितृपिशाचादिलक्षणं द्युवियत्पृथिव्यादित्यचन्द्रग्रहनक्षत्रविचित्रं विविधप्राण्युपभोगयोग्यस्थानसाधनसम्बन्धि, तदत्यन्तकुशलशिल्पिभिरपि दुर्निर्माणं देशकालनिमित्तानुरूपनियतप्रवृत्तिनिवृत्तिक्रमम् एतद्भोक्तृकर्मविभागज्ञप्रयत्नपूर्वकं भवितुमर्हति, कार्यत्वे सति यथोक्तलक्षणत्वात् , गृहप्रासादरथशयनासनादिवत् , विपक्षे आत्मादिवत् । कर्मण एवेति चेत् , न ; परतन्त्रस्य निमित्तमात्रत्वात् । यदिदमुपभोगवैचित्र्यं प्राणिनां तत्साधनवैचित्र्यं च देशकालनिमित्तानुरूपनियतप्रवृत्तिनिवृत्तिक्रमं च, तन्न नित्यसर्वज्ञकर्तृकम् ; किं तर्हि, कर्मण एव ; तस्याचिन्त्यप्रभावत्वात् सर्वैश्च फलहेतुत्वाभ्युपगमाच्च । सति कर्मणः फलहेतुत्वे किमीश्वराधिककल्पनयेति न नित्यस्येश्वरस्य नित्यसर्वज्ञशक्तेः फलहेतुत्वं चेति चेत् , न ; कर्मण एवोपभोगवैचित्र्याद्युपपद्यते । कस्मात् ? कर्तृतन्त्रत्वात्कर्मणः । चितिमत्प्रयत्ननिर्वृत्तं हि कर्म तत्प्रयत्नोपरमादुपरतं सद्देशान्तरे कालान्तरे वा नियतनिमित्तविशेषापेक्षं कर्तुः फलं जनयिष्यतीति न युक्तमनपेक्ष्यान्यदात्मनः प्रयोक्तृ, कर्तैव फलकाले प्रयोक्तेति चेत् , मया निवर्तितोऽसि त्वां प्रयोक्ष्ये फलाय यदात्मानुरूपं फलमिति न देशकालनिमित्तविशेषानभिज्ञत्वात् । यदि हि कर्ता देशादिविशेषाभिज्ञः सन्स्वातन्त्र्येण कर्म नियुञ्ज्यात् , ततोऽनिष्टफलस्याप्रयोक्ता स्यात् । न च निर्निमित्तं तदनिच्छयात्मसमवेतं तच्चर्मवद्विकरोति कर्म । न चात्मकृतमकर्तृसमवेतमयस्कान्तमणिवदाक्रष्टृ भवति, प्रधानकर्तृसमवेतत्वात्कर्मणः । भूताश्रयमिति चेत् , न ; साधनत्वात् । कर्तृक्रियायाः साधनभूतानि भूतानि क्रियाकालेऽनुभूतव्यापाराणि समाप्तौ च हलादिवत्कर्त्रा परित्यक्तानि न फलं कालान्तरे कर्तुमुत्सहन्ते । न हि हलं क्षेत्राद्व्रीहीन्गृहं प्रवेशयति । भूतकर्मणोश्चाचेतनत्वात्स्वतः प्रवृत्त्यनुपपत्तिः । वायुवदिति चेत् , न ; असिद्धत्वात् । न हि वायोरचितिमतः स्वतः प्रवृत्तिः सिद्धा, रथादिष्वदर्शनात् । शास्त्रात्कर्मण एवेति चेत् — शास्त्रं हि क्रियातः फलसिद्धिमाह नेश्वरादेः ‘स्वर्गकामो यजेत’ इत्यादि । न च प्रमाणाधिगतत्वादानर्थक्यं युक्तम् । न चेश्वरास्तित्वे प्रमाणान्तरमस्तीति चेत् , न ; दृष्टन्यायहानानुपपत्तेः । क्रिया हि द्विविधा दृष्टफला अदृष्टफला च । दृष्टफलापि द्विविधा अनन्तरफला कालान्तरफला च । अनन्तरफला गतिभुजिलक्षणा । कालान्तरफला च कृषिसेवादिलक्षणा । तत्रानन्तरफला फलापवर्गिण्येव । कालान्तरफला तु उत्पन्नप्रध्वंसिनी । आत्मसेव्याद्यधीनं हि कृषिसेवादेः फलं यतः । न चोभयन्यायव्यतिरेकेण स्वतन्त्रं कर्म ततो वा फलं दृष्टम् । तथा च कर्मफलप्राप्तौ न दृष्टन्यायहानमुपपद्यते । तस्माच्छान्ते यागादिकर्मणि नित्यः कर्तृकर्मफलविभागज्ञ ईश्वरः सेव्यादिवद्यागाद्यनुरूपफलदातोपपद्यते । स चात्मभूतः सर्वस्य सर्वक्रियाफलप्रत्ययसाक्षी नित्यविज्ञानस्वभावः संसारधर्मैरसंस्पृष्टः । श्रुतेश्च । ‘न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २ । २ । ११) ‘जरां मृत्युमत्येति’ (बृ. उ. ३ । ५ । १) ‘विजरो विमृत्युः’ (छा. उ. ८ । ७ । १) ‘सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । ७ । १) ‘एष सर्वेश्वरः’ (बृ. उ. ४ । ४ । २२) ‘पुण्यं कर्म कारयति’ ‘अनश्नन्नन्यो अभिचाकशीति’ (मु. उ. ३ । १ । १) ‘एतस्य वा अक्षरस्य प्रशासने’ (बृ. उ. ३ । ८ । ९) इत्याद्या असंसारिण एकस्यात्मनो नित्यमुक्तस्य सिद्धौ श्रुतयः । स्मृतयश्च सहस्रशो विद्यन्ते । न चार्थवादाः शक्यन्ते कल्पयितुम् , अनन्ययोगित्वे सति विज्ञानोत्पादकत्वात् । न चोत्पन्नं विज्ञानं बाध्यते । अप्रतिषेधाच्च । न चेश्वरो नास्तीति निषेधोऽस्ति । प्राप्त्यभावादिति चेत् , न ; उक्तत्वात् । ‘न हिंस्यात्’ इतिवत्प्राप्त्यभावात्प्रतिषेधो नारभ्यत इति चेत् , न ; ईश्वरसद्भावे न्यायस्योक्तत्वात् । अथवा अप्रतिषेधादिति कर्मणः फलदाने ईश्वरकालादीनां न प्रतिषेधोऽस्ति । न च निमित्तान्तरनिरपेक्षं केवलेन कर्त्रैव प्रयुक्तं फलदं दृष्टम् । न च विनष्टोऽपि यागः कालान्तरे फलदो भवति । सेव्यबुद्धिवत्सेवकेन सर्वज्ञेश्वरबुद्धौ तु संस्कृतायां यागादिकर्मणा विनष्टेऽपि कर्मणि सेव्यादिवेश्वरात्फलं कर्तुर्भवतीति युक्तम् । न तु पुनः पदार्था वाक्यशतेनापि देशान्तरे कालान्तरे वा स्वं स्वं स्वभावं जहति । न हि देशकालान्तरेषु चाग्निरनुष्णो भवति । एवं कर्मणोऽपि कालान्तरे फलं द्विप्रकारमेवोपलभ्यते । बीजक्षेत्रसंस्कारपरिरक्षाविज्ञानवत्कर्त्रपेक्षफलं कृष्यादि, विज्ञानवत्सेव्यबुद्धिसंस्कारापेक्षफलं च सेवादि । यागादेः कर्मणस्तथाविज्ञानवत्कर्त्रपेक्षफलत्वानुपपत्तौ कालान्तरफलत्वात्कर्मदेशकालनिमित्तविपाकविभागज्ञबुद्धिसंस्कारापेक्षं फलं भवितुमर्हति, सेवादिकर्मानुरूपफलज्ञसेव्यबुद्धिसंस्कारापेक्षफलस्येव । तस्मात्सिद्धः सर्वज्ञ ईश्वरः सर्वजन्तुबुद्धिकर्मफलविभागसाक्षी सर्वभूतान्तरात्मा । ‘यत्साक्षादपरोक्षात्’ (बृ. उ. ३ । ४ । १) ‘य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) इति श्रुतेः । स एव चात्रात्मा जन्तूनाम् , ‘नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता’ (बृ. उ. ३ । ७ । २३) ‘नान्यदतोऽस्ति विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इत्याद्यात्मान्तरप्रतिषेधश्रुतेः ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति चात्मत्वोपदेशात् । न हि मृत्पिण्डः काञ्चनात्मत्वेनोपदिश्यते । ज्ञानशक्तिकर्मोपास्योपासकशुद्धाशुद्धमुक्तामुक्तभेदादात्मभेद एवेति चेत् , न ; भेददृष्ट्यपवादात् । यदुक्तं संसारिणः ईश्वारादनन्या इति तन्न । किं तर्हि ? भेद एव संसार्यात्मनाम् । कस्मात् ? लक्षणभेदात् , अश्वमहिषवत् । कथं लक्षणभेद इति, उच्यते — ईश्वरस्य तावन्नित्यं सर्वविषयं ज्ञानं सवितृप्रकाशवत् । तद्विपरीतं संसारिणां खद्योतस्येव । तथैव शक्तिभेदोऽपि । नित्या सर्वविषया चेश्वरशक्तिः ; विपरीतेतरस्य । कर्म च चित्स्वरूपात्मसत्तामात्रनिमित्तमीश्वरस्य । औष्ण्यस्वरूपद्रव्यसत्तामात्रनिमित्तदहनकर्मवत् राजायस्कान्तप्रकाशकर्मवच्च स्वात्मनोऽविक्रिया रूपम् ; विपरीतमितरस्य । ‘उपासीत’ इति वचनादुपास्य ईश्वरो गुरुराजवत् । उपासकश्चेतरः शिष्यभृत्यवत् । अपहतपाप्मादिश्रवणान्नित्यशुद्ध ईश्वरः । ‘पुण्यो वै पुण्येन’ (बृ. उ. ३ । २ । १३) इति वचनाद्विपरीत इतरः । अत एव नित्यमुक्त ईश्वरः । नित्याशुद्धियोगात्संसारीतरः । यत्र च ज्ञानादिलक्षणभेदोऽस्ति तत्र भेदो दृष्टः यथा अश्वमहिषयोः । तथा ज्ञानादिलक्षणभेदादीश्वरादात्मनां भेदोऽस्तीति चेत् , न । कस्मात् ? ‘अन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १ । ४ । १०) ‘ते क्षय्यलोका भवन्ति’ (छा. उ. ७ । २५ । २) ‘मृत्योः स मृत्युमाप्नोति’ (क. उ. २ । १ । १०) इति भेददृष्टिर्ह्यपोद्यते । एकत्वप्रतिपादिन्यश्च श्रुतयः सहस्रशो विद्यन्ते । यदुक्तं ज्ञानादिलक्षणभेदादिति अत्रोच्यते । न, अनभ्युपगमात् । बुद्ध्यादिभ्यो व्यतिरिक्ता विलक्षणाश्चेश्वराद्भिन्नलक्षणा आत्मानो न सन्ति । एक एवेश्वरश्चात्मा सर्वभूतानां नित्यमुक्तोऽभ्युपगम्यते । बाह्यश्च बुद्ध्यादिसमाहारसन्तानाहङ्कारममत्वादिविपरीतप्रत्ययप्रबन्धाविच्छेदलक्षणो नित्यशुद्धबुद्धमुक्तस्वरूपविज्ञानात्मेश्वरगर्भो नित्यविज्ञानावभासः चित्तचैत्त्यबीजबीजिस्वभावः कल्पितोऽनित्यविज्ञान ईश्वरलक्षणविपरीतोऽभ्युपगम्यते । यस्याविच्छेदे संसारव्यवहारः ; विच्छेदे च मोक्षव्यवहारः । अन्यश्च मृत्प्रलेपवत्प्रत्यक्षप्रध्वंसो देवपितृमनुष्यादिलक्षणो भूतविशेषसमाहारो न पुनश्चतुर्थोऽन्यो भिन्नलक्षण ईश्वरादभ्युपगम्यते । बुद्ध्यादिकल्पितात्मव्यतिरेकाभिप्रायेण तु लक्षणभेदादित्याश्रयासिद्धो हेतुः, ईश्वरादन्यस्यात्मनोऽसत्त्वात् । ईश्वरस्यैव विरुद्धलक्षणत्वमयुक्तमिति चेत् सुखदुःखादियोगश्च, न ; निमित्तत्वे सति लोकविपर्ययाध्यारोपणात् , सवितृवत् । यथा हि सविता नित्यप्रकाशरूपत्वाल्लोकाभिव्यक्त्यनभिव्यक्तिनिमित्तत्वे सति लोकदृष्टिविपर्ययेणोदयास्तमयाहोरात्रादिकर्तृत्वाध्यारोपभाग्भवति, एवमीश्वरे नित्यविज्ञानशक्तिरूपे लोकज्ञानापोहसुखदुःखस्मृत्यादिनिमित्तत्वे सति लोकविपरीतबुद्ध्याध्यारोपितं विपरीतलक्षणत्वं सुखदुःखादयश्च ; न स्वतः । आत्मदृष्ट्यनुरूपाध्यारोपाच्च । यथा घनादिविप्रकीर्णेऽम्बरे येनैव सवितृप्रकाशो न दृश्यते, स आत्मदृष्ट्यनुरूपमेवाध्यस्यति सवितेदानीमिह न प्रकाशयतीति सत्येव प्रकाशेऽन्यत्र भ्रान्त्या । एवमिह बौद्धादिवृत्त्युद्भवाभिभवाकुलभ्रान्त्याध्यारोपितः सुखदुःखादियोग उपपद्यते । तत्स्मरणाच्च । तस्यैव ईश्वरस्यैव हि स्मरणम् ‘मत्तः स्मृतिर्ज्ञानमपोहनं च’ (भ. गी. १५ । १५) ‘नादत्ते कस्यचित्पापम्’ (भ. गी. ५ । १५) इत्यादि । अतो नित्यमुक्त एकस्मिन्सवितरीव लोकाविद्याध्यारोपितमीश्वरे संसारित्वम् ; शास्त्रादिप्रामाण्यादभ्युपगतमसंसारित्वमित्यविरोध इति । एतेन प्रत्येकं ज्ञानादिभेदः प्रत्युक्तः । सौक्ष्म्यचैतन्यसर्वगतत्वाद्यविशेषे च भेदहेत्वभावात् । विक्रियावत्त्वे चानित्यत्वात् । मोक्षे च विशेषानभ्युपगमात् अभ्युपगमे चानित्यत्वप्रसङ्गात् । अविद्यावदुपलभ्यत्वाच्च भेदस्य तत्क्षयेऽनुपपत्तिरिति सिद्धमेकत्वम् । तस्माच्छरीरेन्द्रियमनोबुद्धिविषयवेदनासन्तानस्याहङ्कारसम्बन्धादज्ञानबीजस्य नित्यविज्ञानान्यनिमित्तस्यात्मतत्त्वयाथात्म्यविज्ञानाद्विनिवृत्तावज्ञानबीजस्य विच्छेद आत्मनो मोक्षसंज्ञा, विपर्यये च बन्धसंज्ञा ; स्वरूपापेक्षत्वादुभयोः । ब्रह्म — ह इत्यैतिह्यार्थः — पुरा किल देवासुरसङ्ग्रामे जगत्स्थितिपरिपिपालयिषया आत्मानुशासनानुवर्तिभ्यो देवेभ्यः अर्थिभ्योऽर्थाय विजिग्ये अजैषीदसुरान् । ब्रह्मण इच्छानिमित्तो विजयो देवानां बभूवेत्यर्थः । तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । यज्ञादिलोकस्थित्यपहारिष्वसुरेषु पराजितेषु देवा वृद्धिं पूजां वा प्राप्तवन्तः । त ऐक्षन्तेति मिथ्याप्रत्ययत्वाद्धेयत्वख्यापनार्थ आम्नायः । ईश्वरनिमित्ते विजये स्वसामर्थ्यनिमित्तोऽस्माकमेवायं विजयोऽस्माकमेवायं महिमेत्यात्मनो जयादिश्रेयोनिमित्तं सर्वात्मानमात्मस्थं सर्वकल्याणास्पदमीश्वरमेवात्मत्वेनाबुद्ध्वा पिण्डमात्राभिमानाः सन्तो यं मिथ्याप्रत्ययं चक्रुः तस्य पिण्डमात्रविषयत्वेन मिथ्याप्रत्ययत्वात्सर्वात्मेश्वरयाथात्म्यावबोधेन हातव्यताख्यापनार्थः तद्धैषामित्याद्याख्यायिकाम्नायः । तद्ब्रह्म ह किल एषां देवानामभिप्रायं मिथ्याहङ्काररूपं विजज्ञौ विज्ञातवत् । ज्ञात्वा च मिथ्याभिमानशातनेन तदनुजिघृक्षया देवेभ्योऽर्थाय तेषामेवेन्द्रियगोचरे नातिदूरे प्रादुर्बभूव महेश्वरशक्तिमायोपात्तेनात्यन्ताद्भुतेन प्रादुर्भूतं किल केनचिद्रूपविशेषेण । तत्किलोपलभमाना अपि देवा न व्यजानत न विज्ञातवन्तः किमिदं यदेतद्यक्षं पूज्यमिति । तद्विज्ञानायाग्निमब्रुवन् । तृणनिधानेऽयमभिप्रायः — अत्यन्तसम्भावितयोरग्निमारुतयोस्तृणदहनादानाशक्त्या आत्मसम्भावना शातिता भवेदिति । इन्द्र आदित्यो वज्रभृद्वा, अविरोधात् । इन्द्रोपसर्पणे ब्रह्म तिरोदध इत्यस्यायमभिप्रायः — इन्द्रोऽहमित्यधिकतमोऽभिमानोऽस्य ; सोऽहमग्न्यादिभिः प्राप्तं वाक्सम्भाषणमात्रमप्यनेन न प्राप्तोऽस्मीत्यभिमानं कथं न नाम जह्यादिति । तदनुग्रहायैवान्तर्हितं तद्ब्रह्म बभूव । स शान्ताभिमान इन्द्रः अत्यर्थं ब्रह्म विजिज्ञासुः यस्मिन्नाकाशे ब्रह्मणः प्रादुर्भाव आसीत्तिरोधानं च, तस्मिन्नेव स्त्रियमतिरूपिणीं विद्यामाजगाम । अभिप्रायोद्बोधहेतुत्वाद्रुद्रपत्नी उमा हैमवतीव बहु शोभमाना विद्यैव । विरूपोऽपि विद्यावान्बहु शोभते ॥
इति तृतीयखण्डभाष्यम् ॥
ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ १ ॥
तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २ ॥
तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३ ॥
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३ इतीन्न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४ ॥
तां च पृष्ट्वा तस्या एव वचनात् विदाञ्चकार विदितवान् । अत इन्द्रस्य बोधहेतुत्वाद्विद्यैवोमा । ‘विद्यासहायवानीश्वरः’ इति स्मृतिः । यस्मादिन्द्रविज्ञानपूर्वकमग्निवाय्विन्द्रास्ते हि एनत् नेदिष्ठम् अतिसमीपं ब्रह्मविद्यया ब्रह्म प्राप्ताः सन्तः पस्पर्शुः स्पृष्टवन्तः । ते हि एनत् प्रथमः प्रथमं विदाञ्चकार विदाञ्चक्रुरित्येतत् । तस्मात् अतितराम् अतीत्य अतिशयेन दीप्यन्तेऽन्यान् देवान् । ततोऽपीन्द्रोऽतितरां दीप्यते, आदौ ब्रह्मविज्ञानात् । तस्यैष आदेशः तस्य ब्रह्मण एष वक्ष्यमाणः आदेशः उपासनोपदेश इत्यर्थः । यस्माद्देवेभ्यो विद्युदिव सहसैव प्रादुर्भूतं ब्रह्म द्युतिमत् , तस्माद्विद्युतो विद्योतनं यथा यदेतद्ब्रह्म व्यद्युतत् विद्योतितवत् । आ इत्युपमार्थ आ—शब्दः । यथा घनान्धकारं विदार्य विद्युत्सर्वतः प्रकाशते, एवं तद्ब्रह्म देवानां पुरतः सर्वतःप्रकाशवद्व्यक्तीभूतम् । अतो व्यद्युतदिवेत्युपास्यम् । ‘यथा सकृद्विद्युतम्’ (बृ. उ. २ । ३ । ६) इति च वाजसनेयके । यस्माच्चेन्द्रोपसर्पणकाले न्यमीमिषत् — यथा कश्चिच्चक्षुर्निमेषणं कृतवानिति । इतीदित्यनर्थकौ निपातौ — निमिषितवदिव तिरोभूतमित्येवमधिदैवतं देवताया अधि यद्दर्शनमधिदैवतं तत् ॥
अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ ५ ॥
अथ अनन्तरम् अध्यात्मम् आत्मनः अधि आत्मविषयम् अध्यात्मम् उच्यत इति वाक्यशेषः । यदेतत् यथोक्तलक्षणं ब्रह्म गच्छतीव प्राप्नोतीव विषयीकरोतीवेत्यर्थः । न पुनर्विषयीकरोति मनः, अविषयत्वाद्ब्रह्मणः । अतो मनो न गच्छति । ‘येनाहुर्मनो मतम्’ (के. उ. १ । ५) इति चोक्तम् । गच्छतीवेति तु मनसोऽपि मनस्त्वात् आत्मभूतत्वाच्च ब्रह्मणः तत्समीपे मनो वर्तते इति उपस्मरति अनेन मनसैव तद्ब्रह्म विद्वान्यस्मात् , तस्माद्ब्रह्म गच्छतीवेत्युच्यते । अभीक्ष्णं पुनः पुनः । सङ्कल्पः ब्रह्मप्रेषितस्य मनसः । अत उपस्मरणसङ्कल्पादिभिर्लिङ्गैर्ब्रह्म मनआद्यात्मभूतमित्युपास्यमित्यभिप्रायः ॥
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ॥ ६ ॥
तस्य चाध्यात्ममुपासने गुणो विधीयते — तद्ध तद्वनं तदेतद्ब्रह्म तच्च तद्वनं च तत् परोक्षं वनं सम्भजनीयम् । वनतेस्तत्कर्मणः । तस्मात्तद्वनं नाम । ब्रह्मणो गौणं हीदं नाम । तस्मादनेन गुणेन तद्वनमित्युपासितव्यम् । स यः कश्चिदेतद्यथोक्तमेवं यथोक्तेन गुणेन वनमित्यनेन नाम्नाभिधेयं ब्रह्म वेद उपास्ते तस्यैतत्फलमुच्यते — सर्वाणि भूतानि एनम् उपासकम् अभिसंवाञ्छन्ति इहाभिसम्भजन्ते सेवंते स्मेत्यर्थः । यथागुणोपासनं हि फलम् ।
उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥
उपनिषदं भो ब्रूहीत्युक्तायामुपनिषदि शिष्येणोक्त आचार्य आह — उक्ता कथिता ते तुभ्यम् उपनिषदात्मोपासनम् । अधुना ब्राह्मीं वाव ते तुभ्यं ब्रह्मणो ब्राह्मणजातेः उपनिषदम् अब्रूम वक्ष्याम इत्यर्थः । वक्ष्यति हि । ब्राह्मी नोक्ता । उक्ता त्वात्मोपनिषत् । तस्मान्न भूताभिप्रायोऽब्रूमेत्ययं शब्दः ॥
तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ८ ॥
तस्यै तस्या वक्ष्यमाणाया उपनिषदः तपः ब्रह्मचर्यादि दमः उपशमः कर्म अग्निहोत्रादि इत्येतानि प्रतिष्ठा आश्रयः । एतेषु हि सत्सु ब्राह्म्युपनिषत्प्रतिष्ठिता भवति । वेदाः चत्वारः अङ्गानि च सर्वाणि । प्रतिष्ठेत्यनुवर्तते । ब्रह्माश्रया हि विद्या । सत्यं यथाभूतवचनमपीडाकरम् आयतनं निवासः । सत्यवत्सु हि सर्वं यथोक्तमायतन इवावस्थितम् ॥
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९ ॥
तामेतां तपआद्यङ्गां तत्प्रतिष्ठां ब्राह्मीमुपनिषदं सायतनामात्मज्ञानहेतुभूताम् एवं यथावत् यो वेद अनुवर्तते अनुतिष्ठति, तस्यैतत्फलमाह — अपहत्य पाप्मानम् अपक्षय्य धर्माधर्मावित्यर्थः । अनन्ते अपारे अविद्यमानान्ते स्वर्गे लोके सुखप्राये निर्दुःखात्मनि परे ब्रह्मणि ज्येये महति सर्वमहत्तरे प्रतितिष्ठति सर्ववेदान्तवेद्यं ब्रह्म आत्मत्वेनावगम्य तदेव ब्रह्म प्रतिपद्यत इत्यर्थः ॥
इति चतुर्थखण्डभाष्यम् ॥